वांछित मन्त्र चुनें

सं दक्षे॑ण॒ मन॑सा जायते क॒विॠ॒तस्य॒ गर्भो॒ निहि॑तो य॒मा प॒रः । यूना॑ ह॒ सन्ता॑ प्रथ॒मं वि ज॑ज्ञतु॒र्गुहा॑ हि॒तं जनि॑म॒ नेम॒मुद्य॑तम् ॥

अंग्रेज़ी लिप्यंतरण

saṁ dakṣeṇa manasā jāyate kavir ṛtasya garbho nihito yamā paraḥ | yūnā ha santā prathamaṁ vi jajñatur guhā hitaṁ janima nemam udyatam ||

पद पाठ

सम् । दक्षे॑ण । मन॑सा । जा॒य॒ते॒ । क॒विः । ऋ॒तस्य॑ । गर्भः॑ । निऽहि॑तः । य॒मा । प॒रः । यूना॑ । ह॒ । सन्ता॑ । प्र॒थ॒मम् । वि । ज॒ज्ञ॒तुः॒ । गुहा॑ । हि॒तम् । जनि॑म । नेम॑म् । उत्ऽय॑तम् ॥ ९.६८.५

ऋग्वेद » मण्डल:9» सूक्त:68» मन्त्र:5 | अष्टक:7» अध्याय:2» वर्ग:19» मन्त्र:5 | मण्डल:9» अनुवाक:4» मन्त्र:5


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - वह कर्मयोगी (दक्षेण मनसा) समाहित मन से (ऋतस्य कविः संजायते) सच्चाई का कथन करनेवाला होता है। (यमा) देव ने उसे (परः) सर्वोपरि (निहितः) सुरक्षित (गर्भः) गर्भस्थानीय बनाया। (यूना सन्ता) कर्मयोग तथा ज्ञानयोग को पूर्ण करते हुए ज्ञानयोगी और कर्मयोगी ये (ह) प्रसिद्ध दोनों (गुहाहितं) अन्तःकरणरूपी गुहा में निहित परमात्मा को (प्रथमं) सबसे पहिले (विजज्ञतुः) जानते हैं। जो परमात्मा (जनिम) सबकी उत्पत्ति का स्थान तथा (नेमं) सबको नियम में रखनेवाला और (उद्यतं) सर्वोपरि बलस्वरूप है ॥५॥
भावार्थभाषाः - जो परमात्मा सूक्ष्मरूप से सबके अन्तःकरण में विराजमान है, उसको कर्मयोगी और ज्ञानयोगी ही सुलभता से लाभ कर सकते हैं, अन्य नहीं ॥५॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - स कर्मयोगी (दक्षेण मनसा) समाहितमनसा (ऋतस्य कविः सञ्जायते) सत्यस्य कथनकर्ता भवति। (यमा) परमात्मना स कर्मयोगी (परः) उत्तमः (निहितः) सुरक्षितः (गर्भः) गर्भस्थानीयः कृतः। (यूना सन्ता) कर्मयोगिज्ञानयोगिनावुभावपि कर्मयोगज्ञानयोगौ प्रपूरयन्तौ (ह) प्रसिद्धौ (गुहाहितम्) अन्तःकरणगुहास्थितं परमात्मानं (प्रथमम्) पूर्वं (विजज्ञतुः) विजानीतः। यः परमात्मा (जनिम) सर्वोत्पादकस्तथा (नेमम्) सर्वनियामकोऽस्ति। अथ च (उद्यतम्) सर्वोपरि बलरूपोऽस्ति ॥५॥